Skip to main content

भारतस्य इतिहासः अन्तर्विषयाः शिलायुगसंस्कृतिः कांस्ययुगसंस्कृतिः सिन्धुखातसंस्कृतिः वेदकालीनसंस्कृतिः महाजनपदाः पर्षियन्-जनानां, ग्रीक्-जनानां च आक्रमणम् मगधसाम्राज्यम् मध्ययुगीयानि राज्यानि वायुव्यभारतस्य सम्मिश्रसंस्कृतयः मध्ययुगस्य अन्तिमकालस्य साम्राज्यानि इस्लां-सुल्तानाः मोघलानां कालः मोघलानाम् अनन्तरकालः विस्तरणयुगम् भारतगणराज्यम् वंशावली सम्बद्धजना: सञ्चरणावलिःe

भारतस्य इतिहासः


भारतस्यपाकिस्तानस्यबाङ्ग्लादेशस्यश्रीलङ्कादेशस्यनेपालदेशस्यभूतानदेशस्यसिन्धुखातस्य नागरिकतामध्यएषियाभागतःद्राविडजनैःमहावीरगौतमबुद्धयोःभारतीयसंस्कृतिःमोघलजनानांब्रिटिषसाम्राज्यस्यमहात्मागान्धेःभारतंनर्मदानदीखातेषुमध्यप्रदेशस्यचित्रकलायाःगुजरातराज्यस्यसिन्धुखातसंस्कृतौकांस्ययुगस्यवैदिककालस्यसिन्धुखातस्य नागरिकतागाग्गर्नद्योःहाक्रनद्योःगङ्गायमुनयोःदोआब्प्रदेशपर्यन्तंमहाराष्ट्रराज्यपर्यन्तंइरान्देशपर्यन्तम्अफघानिस्तानपर्यन्तंइष्टिकानाम्आहारधान्यानांवेदानांवैदिकसंस्कृतेःवैदिकसंस्कृतेनग्रन्थाःइण्डो-आर्यन्मूलीयासमाजेनपशुपालनमेवऋग्वेदकालानन्तरंकृषिविषयेवर्णाश्रमपद्धतिःहिन्दुधर्मस्यरामायण-महाभारत-भगवद्गीतादीनांअथर्ववेदस्यापिअयसः युगेभारतेवैदिकसाहित्येषुअफघानिस्थानतःबङ्गालपर्यन्तंगङ्गानद्याःराज्यानिमगध-कोसल-कुरु-गान्धारजनपदाःभाषाप्राकृतम्संस्कृतम्तत्त्वशास्त्रस्यउपनिषदांबौद्ध-जैनधर्मौमध्यएषियापूर्वएषियाटिबेट्श्रीलङ्काआग्नेयएषियापर्यन्तमपिपर्षिया-ग्रीसदेशेभ्यःभारतस्यअलेक्साण्डरस्यवंशावली










(function()var node=document.getElementById("mw-dismissablenotice-anonplace");if(node)node.outerHTML="u003Cdiv class="mw-dismissable-notice"u003Eu003Cdiv class="mw-dismissable-notice-close"u003E[u003Ca tabindex="0" role="button"u003Eविलुप्यताम्u003C/au003E]u003C/divu003Eu003Cdiv class="mw-dismissable-notice-body"u003Eu003Cdiv id="localNotice" lang="sa" dir="ltr"u003Eu003Ctable align="Center" style="Background-Color:#f1f5fc; Border: 2px Solid #abd5f5;"u003Ennu003Ctbodyu003Eu003Ctru003Enu003Ctdu003Enu003C/tdu003Eu003C/tru003Enu003Ctr align="Center"u003Enu003Ctdu003Eu003Cimg alt="साहाय्यम्" src="//upload.wikimedia.org/wikipedia/commons/thumb/9/96/Gnome-help.svg/20px-Gnome-help.svg.png" decoding="async" width="20" height="20" srcset="//upload.wikimedia.org/wikipedia/commons/thumb/9/96/Gnome-help.svg/30px-Gnome-help.svg.png 1.5x, //upload.wikimedia.org/wikipedia/commons/thumb/9/96/Gnome-help.svg/40px-Gnome-help.svg.png 2x" data-file-width="60" data-file-height="60" /u003E u003Cbu003Eu003Ca href="/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D:%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A4%B0%E0%A5%80%E0%A4%B2%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%AF%E0%A4%BE_%E0%A4%95%E0%A4%A5%E0%A4%82_%E0%A4%B2%E0%A5%87%E0%A4%96%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D%3F" title="साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?"u003Eदेवनागरीलिप्या लेखनार्थं साहाय्यम्u003C/au003Eu003C/bu003E u0026#160;nu003C/tdu003Enu003Ctdu003Eu003Cimg alt="साहाय्यम्" src="//upload.wikimedia.org/wikipedia/commons/thumb/3/35/Information_icon.svg/20px-Information_icon.svg.png" decoding="async" width="20" height="20" srcset="//upload.wikimedia.org/wikipedia/commons/thumb/3/35/Information_icon.svg/30px-Information_icon.svg.png 1.5x, //upload.wikimedia.org/wikipedia/commons/thumb/3/35/Information_icon.svg/40px-Information_icon.svg.png 2x" data-file-width="620" data-file-height="620" /u003E u0026#160;nu003C/tdu003Eu003C/tru003Eu003C/tbodyu003Eu003C/tableu003Enu003Cpu003Eu003Cbr /u003Enu003C/pu003Eu003C/divu003Eu003C/divu003Eu003C/divu003E";());




भारतस्य इतिहासः




विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः






Jump to navigation
Jump to search


भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभारतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः ।
५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदातनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि पू २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन् । स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते ।


क्रि पू ६ शतके महावीरगौतमबुद्धयोः जन्म अभवत् । तदारभ्य भारतस्य इतिहासस्य प्रमाणानि प्राप्यन्ते । अग्रिमेषु १५००वर्षेषु भारतीयसंस्कृतिः सम्यक् प्रवृद्धा । केषाञ्चन इतिहासतज्ञानाम् अभिप्रायानुसारं क्रि श १ तः १५ शतकावधौ विश्वे एव महती अर्थव्यवस्था आसीत् भारते । तदा जगतः आयव्ययस्य त्रिषु एकस्य भागस्य नियन्त्रणं भारतेन क्रियते स्म । अनन्तरं मोघलजनानां काले चतुर्षु एकभागस्य जातं नियन्त्रणं युरोपियन्-जनानां काले इतोपि न्यूनत्वम् अप्राप्नोत् । ८ तः १२ शतके अरब्-मध्यएषियायोः सैन्याक्रमणतः आरब्धानां यवनाक्रमणानां परिणामतः १६शतकाभ्यन्तरे भारते मोघलसाम्राज्यस्य स्थापनं सञ्जातम् । १५-१६श्तकाभ्यन्तरे जातात् युरोपियन्-वणिजाम् आगमनात् १८शतकाभ्यन्तरे भारते ब्रिटिषसाम्राज्यस्य स्थापनं जातम् । महात्मागान्धेः नेतृत्वे प्रवृत्तस्य अहिंसात्मकान्दोलनस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । किन्तु अखण्डं भारतं जात्यातीतभारतगणराज्यम् इस्लामिक्पाकिस्तानराज्यं चेति द्विधा विभक्तम् । १९७१तमे जातस्य युद्धस्य कारणतः पूर्वपाकिस्तानं स्वतन्त्रं भूत्वा बाङ्ग्लादेशस्य सृष्टिरभवत् । २०तमे शतके १ बिलियन् अपेक्षया अधिकजनसंख्यायुतं भारतं विश्वे एव महत् जनतन्त्रराष्ट्रम् अभवत् । वेगेन प्रवर्धमानायाः आर्थिकव्यवस्थायाः कारणतः आर्थिकव्यवस्थायां विश्वे चतुर्थं स्थानं प्राप्तम् अस्ति भारतेन ।




अन्तर्विषयाः





  • शिलायुगसंस्कृतिः


  • कांस्ययुगसंस्कृतिः


  • सिन्धुखातसंस्कृतिः


  • वेदकालीनसंस्कृतिः


  • महाजनपदाः


  • पर्षियन्-जनानां, ग्रीक्-जनानां च आक्रमणम्

    • ६.१ अकीमेनिड्-साम्राज्यम्


    • ६.२ अलेक्साण्डरस्य साम्राज्यम्


    • ६.३ ग्रीको-बौद्धकालः



  • मगधसाम्राज्यम्

    • ७.१ बृहद्रथवंशः


    • ७.२ प्रद्योतवंशः


    • ७.३ हर्यङ्कवंशः


    • ७.४ शिशुनागवंशः


    • ७.५ नन्दवंशः


    • ७.६ मौर्य साम्राज्यम्


    • ७.७ शुङ्गवंशः


    • ७.८ कन्ववंशः


    • ७.९ गुप्तवंशः



  • मध्ययुगीयानि राज्यानि

    • ८.१ शातवाहनसाम्राज्यम्


    • ८.२ कुनिन्दराज्यम्


    • ८.३ पाण्ड्याः, चोळाः, चेराः च


    • ८.४ कुशानसाम्राज्यम्


    • ८.५ पश्चिमक्षत्रपाः


    • ८.६ गुप्तसाम्राज्यम्


    • ८.७ श्वेतहूणानाम् आक्रमणम्


    • ८.८ कळभ्राः



  • वायुव्यभारतस्य सम्मिश्रसंस्कृतयः

    • ९.१ इण्डो-ग्रीक्-साम्राज्यम्


    • ९.२ इण्डो-स्कैथियन्नाः


    • ९.३ इण्डो-पार्तियन्नाः


    • ९.४ इण्डो-सस्सानियाः



  • १० मध्ययुगस्य अन्तिमकालस्य साम्राज्यानि

    • १०.१ हर्षसाम्राज्यम्


    • १०.२ चालुक्याः पल्लवाः च


    • १०.३ चोळसाम्राज्यम्


    • १०.४ प्रतिहाराः, पालाः तथा राष्ट्रकूटाः


    • १०.५ रजपूताः


    • १०.६ होय्सलाः, काकतीयाः, दक्षिणकळचूर्याः, सेपुणराज्यानि च


    • १०.७ शाहिराज्यम्


    • १०.८ विजयनगरसाम्राज्यम्



  • ११ इस्लां-सुल्तानाः

    • ११.१ देहली-सुल्तानाः



  • १२ मोघलानां कालः


  • १३ मोघलानाम् अनन्तरकालः

    • १३.१ मराठासाम्राज्यम्


    • १३.२ मैसूरु-संस्थानम्


    • १३.३ पञ्जाब्


    • १३.४ दुरानीसाम्राज्यम्


    • १३.५ गूर्खाः



  • १४ विस्तरणयुगम्

    • १४.१ कम्पनिशासनम्


    • १४.२ ब्रिटन्देशस्य आधीन्ये


    • १४.३ स्वातन्त्रान्दोलनम्



  • १५ भारतगणराज्यम्


  • १६ वंशावली


  • १७ सम्बद्धजना:

    • १७.१ १७०० तमे


    • १७.२ १८०० तमे


    • १७.३ १९०० तमे





शिलायुगसंस्कृतिः




केरले एडकल्लुगुहासु (५०००BC) शिलासु लिखितानि चित्राणि


(क्रि पू ७०,०००-५०००)


५००,००० वर्षेभ्यः पूर्वतनाः होमोएरेक्टस्जातीयानां पूर्वमानवानाम् अवशेषाः प्राप्ताः सन्ति नर्मदानदीखातेषु । आधुनिकमानवस्य आगमनं भारतं प्रति ७०,०००-८०,०००वर्षाभ्यन्तरे स्यात् इति अभिप्रायः आधुनिकविज्ञानस्य । मध्यप्रदेशस्य "छिम्बेट्का" इत्यत्र ९०००वर्षेभ्यः पूर्वतनगुहासु प्राप्ताः मानवस्य वसतेः चित्रकलायाः च अवशेषाः एव आधुनिकमानवानां प्रथमचिह्नम् । ७०००वर्षेभ्यः पूर्वतनाः अवशेषाः प्राप्ताः सन्ति गुजरातराज्यस्य खम्बत्-उपसागरे । इदानीन्तनपाकिस्थानस्य बलूचिस्थानप्रान्ते ७०००वर्षेभ्यः पूर्वतनाः शिलया-मृत्तिकाभिः च निर्मिताः वसतयः प्राप्ताः सन्ति । क्रि पू ३५००वर्षावसरे सा संस्कृतिः सिन्धुखातसंस्कृतौ विलीना जाता इति चिन्त्यते ।



कांस्ययुगसंस्कृतिः


(क्रि पू ३३००-१५००)


अखण्डभारतस्य कांस्ययुगस्य संस्कृतयः नागरिकवसतीनां, वैदिककालस्य वर्धनस्य वा आधुनिकभारतीयसंस्कृतेः आधारभूमिः । कांस्ययुगे सिन्धुखातस्य संस्कृतिः, वैदिकसंस्कृतिः च प्रवृद्धे जाते ।



सिन्धुखातसंस्कृतिः


(क्रि पू ३३००तः १५००)




सिन्धुखातसंस्कृतौ उपयुक्तानि आयसाक्षराणि


सिन्धुनद्याः तीरे प्रायः क्रि पू २५००मध्ये जलमातृकम् आरब्धम् । तेन सह प्रगतिपथम् आगता नागरिकता एव सिन्धुखातस्य नागरिकता । एषा नागरिकता क्रि पू २५००तः क्रि पू १९००अवधौ संवृद्धा । एतदवसरे हरप्पा तथा मोहेञ्जोदारो इति नगरद्वयम् आसीत् । एते एव विश्वे प्रथमनगरे इति प्रख्याते । एषा नागरिकता सिन्धोः, तस्याः उपनद्योः गाग्गर्नद्योः हाक्रनद्योः तीरे प्रसृता आसीत् । कालक्रमेण सा पश्चिमदिशि गङ्गायमुनयोः मध्ये विद्यमानस्य दोआब्प्रदेशपर्यन्तं, दक्षिणे इदानीन्तनमहाराष्ट्रराज्यपर्यन्तं, पूर्वदिशि इदानीन्तन-इरान्देशपर्यन्तम्, उत्तरदिशि इदानीन्तन-अफघानिस्तानपर्यन्तं प्रसृता । एतदवसरे उत्तमः नगररचनाक्रमः आसीत् । इष्टिकानाम् उपयोगः, बहु-अट्टात्मकानां भवनानां निर्माणं, अन्तर्कुक्कुलीव्यवस्था (कुक्कुली इत्युक्ते मलिनजलप्रवाहनालः) च एतस्याः नागरिकतायाः वैशिष्ट्यम् । तदानीन्तनजनसंख्या ५० लक्षमिता स्यादिति तज्ञानाम् अभिप्रायः ।


भौगोलिकपरिवर्तनानां वातावरणवैपरीत्यानां कारणतः एतस्याः नागरिकतायाः नाशस्य कारणं स्यादिति ऊह्यते । क्रि पू २६००वर्षेभ्यः पूर्वमेव ते जलमातृकव्यवस्थाम्, आहारधान्यानां रक्षणार्थं भाण्डारव्यवस्थां, सार्वजनिकमार्गाणां व्यवस्थाम्, इष्टिकाभिः कुक्कुलीनिर्माण्व्यवस्थां वा ज्ञातवन्तः आसन् ।



वेदकालीनसंस्कृतिः




वैदिककाले उत्तरभारतस्य मानकित्रम्


(क्रि पू १९०० तः ५००)


वेदानां रचना अस्याः वैदिकसंस्कृतेः काले एव वैदिकसंस्कृतेन कृता । वेदाः एव जगति अत्यन्तं प्राचीनाः ग्रन्थाः । तदानीन्तनसंस्कृतिः इण्डो-आर्यन्मूलीया आसीत् । वेदकालस्य आरम्भे तेन समाजेन पशुपालनमेव अवलम्बितम् आसीत् । ऋग्वेदकालानन्तरं सः समाजः कृषिविषये लक्ष्यम् अददात् । तदा वर्णाश्रमपद्धतिः आसीत् । कालक्रमेण लघुराज्यानां मेलनेन कुरु-पाञ्चालसदृशानि महाराज्यानि उदितानि । हिन्दुधर्मस्य प्रधानग्रन्थानां रामायण-महाभारत-भगवद्गीतादीनां रचना अपि तदा एव मुखोक्तरीत्या जाता इति उच्यते । अथर्ववेदस्यापि रचना अस्मिन्नेव काले जाता इति ज्ञायते । अनन्तरं क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते ।



महाजनपदाः



Ancient india.png


(क्रि पू ७००-३२०)


अयसः युगे भारते लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु वैदिकसाहित्येषु अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तेषु मगध-कोसल-कुरु-गान्धारजनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां भाषा प्राकृतम् उच्चवर्गीयाणां विद्यावतां वा भाषा संस्कृतम् आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म ।


तत्त्वशास्त्रस्य प्रथमावस्था इत्याख्यानाम् उपनिषदां रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले बौद्ध-जैनधर्मौ अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः मध्यएषिया, पूर्वएषिया, टिबेट्, श्रीलङ्का, आग्नेयएषियापर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । पर्षिया-ग्रीसदेशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत ।


महाजनपदाः प्राचीनभारतस्य साम्राज्यानि आसन् । षोडश जनपदाः आसन् । ते ;



  1. अङ्गः

  2. कोसलः


  3. काशी (प्राचीनभारतम्)

  4. मगधः


  5. वज्जी (वा वृज्जी)

  6. मल्लः

  7. चेडी

  8. वत्सः

  9. कुरुः

  10. पाञ्चालः

  11. मत्स्यः

  12. शूरसेनः

  13. अश्मकः

  14. अवन्ती

  15. गान्धारः

  16. काम्भोजः


एतेषु गन्धारः काम्भोजश्च उत्तरपते स्थितौ ।



पर्षियन्-जनानां, ग्रीक्-जनानां च आक्रमणम्


क्रि पू ५ शतके भारतस्य उपरि अकीमेनिड्-साम्राज्यस्य, अलेक्साण्डरस्य च आक्रमणं सञ्जातम् । तस्मात् भारतस्य राजकीयव्यवस्था एव परिवर्तिता अभवत् ।



अकीमेनिड्-साम्राज्यम्


वायुव्यभारते पर्षियातः आगतस्य अकीमेनिड्-साम्राज्यस्य शासनम् आसीत् । एतत् साम्राज्यं भारते १८६ वर्षाणि यावत् शासनम् अकरोत् । ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म । एतदवसरे एव आक्रमणं कृतवतः अलेक्साण्डरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत् । अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च अलेक्साण्डरस्य वशं गतौ ।


अलेक्साण्डरस्य साम्राज्यम्


अलेक्साण्डरः क्रि पू ३३४ तमे वर्षे एषियाखण्डस्य कतिपय भागान् अकीमेनिड्-साम्राज्यं च वशीकृत्य भारतस्य उत्तरपश्चिमभागं प्राप्नोत् । तत्र सः भारतस्य राजानं पोरसं हैदस्पेस्युद्धे (इदानीतनपाकिस्तानस्य "जीलम्"नगरसमीपे) पराजित्य पञ्जाबप्रदेशस्य बहून् भागान् वशीकृतवान् । "बियस"नदीम् अतिक्रम्य ततोऽपि अग्रे गन्तुम् अलेक्साण्डरस्य सैन्यं नाशक्नोत् । तस्मात् कारणात् तस्य सैन्यं दक्षिणपश्चिमदिशि अगच्छत् ।


ग्रीको-बौद्धकालः


शास्त्रीयायाः ग्रीकसंस्कृतेः बौद्धधर्मस्य च सांस्कृतिकमिश्रणम् एव ग्रीको-बौद्धसंस्कृतिः । सा क्रि पू चतुर्थे पञ्चमे च शतके इदानीन्तन-अफघानिस्तानस्य पाकिस्तानस्य च प्रदेशेषु व्याप्ता आसीत् । विशेषरूपेण महायानम् एतस्याः संस्कृतेः प्रभावितं जातम् । अनन्तरम् एषा संस्कृतिः चीना, कोरिया, जपान्-देशपर्यन्तं प्रसृता ।


मगधसाम्राज्यम्


- क्रि पू ६८४-३२१


मगधं पूर्वभारतस्य किञ्चित् राज्यम् आसीत्‌ । मगधदेशः षोडशमहाजनपदेषु अन्यतम: । अद्यतन: बिहारप्रदेश: मगधदेश: आसीत् । तस्य द्वे राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चेति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्यौतिषं धर्म: इत्येतेषां शास्त्राणां विकास: अभवत् अत्र ।

भूगोलाधारः


मगधदेशे अद्यतने पटना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म । अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत् ।

इतिहासः


एषः प्रदेश: एव बौद्धजैनमतानां जन्मस्थानम् । अत्र एव मौर्यगुप्तसाम्राज्ये आरभेताम् । अस्मिन् देशे एव प्राचीनकाले अत्यन्तं प्रख्यात: नालन्दाविश्वविद्यालय: अपि आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म ।

वंशावली



बृहद्रथवंशः


अयं वंशः भारतेन बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः भीमेन हतः । एष: वंशः सहस्रवर्षाणि शासनम् अकरोत् ।


प्रद्योतवंशः


प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत् । तेषां सम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत् ।


हर्यङ्कवंशः


हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्षे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म । तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।


शिशुनागवंशः


एषः वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।


नन्दवंशः


अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत् । महापद्मनन्दः अष्टाशीतिवर्षाणि यावत् जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः ।


मौर्य साम्राज्यम्


मौर्यसाम्राज्यं चन्द्रगुप्तमौर्येन प्रतिष्ठापितम् । सः विशालराज्यं प्राशासत । सः कम्भोजपारसिकयवनराज्यानि अपि जितवान् । तस्य पुत्रः बिन्दुसारः आसीत् । तस्य पौत्रः सम्राट् अशोक़ः । कलिङ्गयुद्धानन्तरम् अशोकः बौद्धधर्मम् अहिंसां च गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान् ।


शुङ्गवंशः


क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान् । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।


कन्ववंशः


क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशः प्रतिष्ठापितः । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।


गुप्तवंशः


गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तानां राजसभायां कालिदासार्यभट्वराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयते । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् ।


मध्ययुगीयानि राज्यानि


मध्ययुगं तत्रापि गुप्तसाम्राज्यस्य कालः भारतस्य अभूतपूर्व-सांस्कृतिक-अभिवृद्धेः कालः । एषः अवधिः भारतस्य सुवर्णकालः इति उक्तम् अस्ति भारतीय-इतिहासे । क्रि श प्रथमशतकस्य मध्यभागे मध्य-एषियातः आगताः कुशानाः ईशान्यभारतम् आक्रम्य साम्राज्यस्थापनम् अकुर्वन् । एतत् साम्राज्यं कालान्तरे पेशावरतः गङ्गानद्याः पर्यन्तं, ततोऽपि अग्रे बङ्गालकोल्लिपर्यन्तम् अपि प्रसृतम् । पुरातनब्याक्ट्रियाप्रदेशः (इदानीन्तन-अफघानिस्तानस्य उत्तरभागे विद्यमानः प्रदेशः), दक्षिणताजकिस्तानप्रदेशः च अस्य साम्राज्यस्य भागाः आसन् । अस्य साम्राज्यस्य प्रभावः तुर्किस्तानपर्यन्तम् अपि प्रसृतः आसीत् । अस्य एव कारणात् अग्रे चीनादेशे बौद्धधर्मस्य प्रसारार्थम् अवसरम् अकल्पयत् । अस्मिन् एव अवधौ दक्षिणभारते बहवः राजवंशाः प्रकाशपथम् आगताः । "मधुरै"नगरं राजधानीं कृत्वा दक्षिणतमिळुनाडुपदेशे शासनं कुर्वत् पाण्ड्यराज्यं तेषु प्रथमम् । अयं कालखण्डः मौर्याणाम् अस्तङ्गमनं, क्रि पू २००तमे वर्षे शातवाहनानां प्रवर्धमानं ततः आरभ्य गुप्तसाम्राज्यस्य अन्त्यपर्यन्तमपि आसीत् । तन्नाम क्रि श प्रथमशतकस्य मध्यभागपर्यन्तम् । प्रायः २०० वर्षाणि यावत् शासनं कृतवतः अस्य नाशः हूणानाम् आक्रमणेन सञ्जातः ।


शातवाहनसाम्राज्यम्


शातवाहनाः (एते आन्ध्राः इत्यपि उच्यन्ते) क्रि पू २३० तः दक्षिणभारते मध्यभारते च शासनम् अकुर्वन् । एतेषां राज्यानाम् अन्त्यविषये विवादाः सन्ति । एते ४५० वर्षाणि यावत् शासनम् अकुर्वन् । तदभ्यन्तरे एव तेषां राज्यं दायादानां मध्ये विभक्तम् आसीत् । शकैः सह कलहः, सामन्तराजानं महवत्त्वाकाङ्क्षा च एतेषाम् अवनतेः कारणं जातम् । अग्रे अनेके राजवंशाः एतत् राज्यं प्राप्तवन्तः ।


कुनिन्दराज्यम्


कुनिन्दराज्यं हिमालयस्य उपत्यकायम् आसीत् । यद्यपि एतत् किञ्चित् लघुराज्यं तथापि ५०० वर्षाणि यावत् ते शासनम् अकुर्वन् । क्रि पू २ शतकतः क्रि श ३ शतकपर्यन्तं शासनं कृतं तैः । एतत् महाजनपदानां कालस्य राज्यम् आसीत् । तदानीन्तनानि राज्यानि इव एतदपि एकं लघुराज्यम् ।


पाण्ड्याः, चोळाः, चेराः च


भारतस्य दक्षिणदिशि आसन् पाण्ड्यानां, चोळानां, चेराणां च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा संस्कृतेः च केन्द्रं फलवत्याः इण्डो-गङ्गाप्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् ।


कुशानसाम्राज्यम्


कुशानसाम्राज्यं क्रि श १ शतकतः ३ शतकपर्यन्तं शासनम् अकरोत् भारते । क्रि श १०५-२५० पर्यन्तम् उत्तुङ्गस्थितौ आसीत् । तदा तत् साम्राज्यं ताजिकिस्तानतः क्यास्टियन्-समुद्रपर्यन्तम्, अफघानिस्तानतः गङ्गानद्याः उपत्यकापर्यन्तं प्रसृतम् आसीत् । अस्य साम्राज्यस्य स्थापनं चीनदेशस्य पूर्वतुर्किस्तानस्य निवासिनः टोचारियन्-जनाः अकुर्वन् । तेषां साम्राज्यस्य संस्कृतिः उत्तरभारतस्य संस्कृतितः प्रभाविता आसीत् । एतत् साम्राज्यं पूर्व-पश्चिमजगतः वाणिज्यकेन्द्रम् आसीत् । रोम्, ससानीय, पर्षिया इत्यादिभिः देशैः सह अस्य साम्राज्यस्य निरन्तरं सम्बन्धः आसीत् । चीनादेशेन सह निरन्तरव्यवहारस्य काराणतः तत्र कालान्तरे बौद्धधर्मः प्रसृतः ।


पश्चिमक्षत्रपाः


पश्चिमक्षत्रपाः अथवा सत्रपाः वस्तुतः शकवंशीयाः एव । एते क्रि श ३५-४०५ पर्यन्तं भारतस्य पश्चिमभागे मध्यभागे च शासनम् अकुर्वन् । एतेषां राज्यं सौराष्ट्रे मालवे च प्रसृतम् आसीत् (इदानीन्तनं महाराष्ट्रं, राजस्थानं, मध्यप्रदेशः च) । उत्तरभारतस्य कुशानाः, मध्यभारतस्य शातवाहनाः (आन्ध्राः) च एतेषां समकालीनाः आसन् । ३५० वर्षाणि यावत् शासनम् अकुर्वन् एते । एते २७ राजानः आसन् । "क्षत्रप"शब्दस्य मूलं सत्रपः अथवा पर्षियन्-शब्दः "क्सत्रपवन" इत्येषः । अस्य शब्दस्य अर्थः प्रान्तप्रमुखः अथवा राजप्रतिनिधिः इति ।


गुप्तसाम्राज्यम्


क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् गुप्तसाम्राज्यम् भारते । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । भारतीये इतिहासे गुप्तकालः "भारतस्य सुवर्णकालः" इत्येव उल्लिखितः अस्ति । तदवसरे भारते विज्ञानं राजनैतिकव्यवहारः च प्रवृद्धौ । ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां हूणानाम् अक्रमणस्य कारणतः गुप्तसम्रज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन मगधस्य शासनं करोति स्म ।


श्वेतहूणानाम् आक्रमणम्


श्वेतहूणाः ५ शतकस्य आरम्भे अफघानिस्ताने राज्यस्थापनम् अकुर्वन् । "बामियान्" तेषां राजधानी आसीत् । एतेषाम् आक्रमणस्य कारणतः एव गुप्तसाम्राज्यस्य नाशः अभवत् । तस्मात् उत्तरभारते सुवर्ण-अध्यायस्य आरम्भः अभवत् । किन्तु दख्खणप्रदेशे दक्षिणभारते च तेषाम् आक्रमणस्य कोऽपि प्रभावः न जातः । ६ शतकनन्तरं भारते अवशिष्टाः हूणाः भारतीयेषु एव अन्तर्भूताः अभवन् ।


कळभ्राः


कळभ्राः बौद्धधर्मीयाः । दक्षिणभारतं शिष्टवान् एकः एव बौद्धराजवंशः कळभ्रवंशः । क्रि श ३ शतकतः ६ शतकपर्यन्तं समग्रं दक्षिणभारतम् एकीकृतवन्तः कळभ्राः । दक्षिणभारते विद्यमानानां पाण्ड्य-चोळ-चेरराज्यानां प्राबल्यं नाशितवन्तः एते ।


वायुव्यभारतस्य सम्मिश्रसंस्कृतयः


इदानीन्तने अफघानिस्ताने, पाकिस्ताने च उद्भूताः संस्कृतयः एताः । अफघानिस्तानस्य उपरि, पाकिस्तानस्य उपरि च काले काले पर्षियन्-जनाः, ग्रीक्-जनाः, मध्य-एषियाजनाः च आक्रमणं कृतवन्तः । तादृशेषु केचन तत्रैव उषितवन्तः । तेषां स्थानीयानां च सम्मेलनेन सम्मिश्रसंस्कृतयः जन्म प्राप्नुवन् । कालान्तरे अफघानिस्तानः पाकिस्तनतः च जनाः कौशेयवाणिज्यस्य व्याजेन भारतं प्रति, विश्वे अन्यत्र च गतवन्तः । ततः एताः संस्कृतयः सर्वत्र प्रसृताः । एतेषां राजानः भारते बौद्धधर्मं, हिन्दुधर्मं च अनुसरन्तः भारतीयसंस्कृतेः उपरि अपि प्रभावं जनितवन्तः ।


इण्डो-ग्रीक्-साम्राज्यम्


एतत् साम्राज्यं वायुव्यभारते उत्तरभारते च प्रसृतम् आसीत् । क्रि पू १८० तः क्रि पू १० पर्यन्तं त्रिंशदधिकाः ग्रीक्-राजानः शासनम् अकुर्वन् । ग्रीको-ब्यास्टियन्-राजा डिमेट्रियस् क्रि पू १८० काले भारतस्य उपरि आक्रमणं कृत्वा साम्राज्यस्थापनम् अकरोत् । तस्य साम्राज्यम् इदानीन्तने उत्तर-अफघानिस्तानप्रदेशे आसीत् ।


इण्डो-स्कैथियन्नाः


एते इण्डो-यूरोपियन्-शकानां गणीयाः । मूलतः सैबीरियाप्रदेशीयाः । सैबीरियातः ब्याक्ट्रियां प्रति, ततः काश्मीरं प्रति, ततः अग्रिमभारतं च प्रविष्टवन्तः । एते इण्डो-ग्रीक्-जनान् भारतः सम्प्रेष्य अत्र शासनम् अकुर्वन् । एतेषां राज्यं गान्धारतः मथुरापर्यन्तं प्रसृतम् आसीत् ।


इण्डो-पार्तियन्नाः


एतेषां भारतीयं नाम "पल्लवाः" इति । एते क्रि श प्रथमशतके शासनम् अकुर्वन् । एतेषां नायकः गोण्डोफेरिस् । सः इदानीन्तनम् अफघानिस्तानं, पाकिस्तानम्, उत्तरभारतं च शिष्टवान् ।


इण्डो-सस्सानियाः


एते वस्तुतः पर्षियामूलीयाः । भारतस्य उपरि गुप्तसाम्राज्यस्य काले आक्रमणम् अकुर्वन् । अनन्तरम् अत्रैव शासनम् अकुर्वन् । एते पञ्जाबप्रान्तस्य पश्चिमदिशि अवसन् । भारतीयसंस्कृत्याः पर्षियन्-संस्कृत्याः च मेलनेन इण्डो-सस्सानियसंस्कृतेः जन्म अभवत् ।


मध्ययुगस्य अन्तिमकालस्य साम्राज्यानि


मध्ययुगस्य अनन्तरम् उत्तरतमिळुनाडुप्रदेशे चोळसाम्राज्यस्य, केरले चेरसाम्राज्यस्य च शासनम् आरब्धम् । दक्षिणभारतस्य नौकास्थानानि हिन्दुमहासागरस्य व्याप्तौ पश्चिमस्य रोमन्-साम्राज्यतः पूर्वस्य आग्नेय-एष्या-पर्यन्तस्य उपस्करवाणिज्यस्य प्रमुखाणि केन्द्राणि अभवन् । उत्तरभारते तु रजपूताः दृढाः जाताः ते भारतेन स्वातन्त्र्यप्राप्तिपर्यन्तम् अपि उत्तरभारते कथञ्चित् शासनम् अकुर्वन् एव । अस्मिन् काले भारते कलाः वर्धिताः । हिन्दु-बौद्ध-जैनधर्माः तदानीन्तनः प्रमुखधर्माः आसन् । उत्तरे हर्षवर्धनस्य द्वितीयशतकस्य आक्रमणस्य कालतः आरभ्य, दक्षिणे विजयनगरसाम्राज्यस्य नाशपर्यन्तम् अयं कालः इति गण्यते ।


हर्षसाम्राज्यम्


गुप्तसाम्राज्यस्य अनन्तरं कनोजस्य हर्षः ७ शतके सम्पूर्णम् उत्तरभारतम् एकत्रीकृतवान् । तस्य मरणानन्तरं तस्य साम्राज्यम् अपि अवनतिं प्राप्नोत् । तदनन्तरं ७ शतकतः ९ शतकपर्यन्तं त्रयः राजवंशाः उत्तरभारतस्य नियन्त्रणार्थं प्रयत्नं, परस्परं युद्धं च अकुर्वन् । ते च मालवस्य प्रतिहाराः,बङ्गालस्य पालाः, दख्खनस्य राष्ट्रकूटाः ।


चालुक्याः पल्लवाः च


क्रि श ६ शतके कलिङ्गे अथवा ओरिस्सासमीपस्य प्रदेशेषु शासनं कुर्वत् विष्णुकुण्डसाम्राज्यम् अग्रे चालुक्यानां साम्राज्यस्य कश्चन भागः अभवत् । चालुक्यसाम्राज्यं क्रि श ५५० तः ७५० पर्यन्तं कर्णाटकस्य बादामीतः, अनन्तरं ९७० तः ११९० पर्यन्तं कर्णाटकस्य कल्याणीतः दक्षिणभारतस्य, मध्यभारतस्य शासनम् अकरोत् । काञ्च्यां शासनं कुर्वन्तःपल्लवाः तेषां समकालीनाः आसन् । एकशतकं यावत् एतयोः साम्राज्ययोः मध्ये परस्परं लघु लघु युद्धानि भवन्ति स्म । बहुवारं अन्यस्य साम्राज्यस्य राजधानीं वश्यकुर्वन् । तादृशेषु युद्धेषु केरलस्य चेराः, श्रीलङ्कायाः राजानः च पल्लवानां पक्षे भवन्ति स्म । पाण्ड्याः चालुक्यानां पक्षे युद्धं कुर्वन्ति स्म । दक्षिणभारतस्य शिलामयाः बहवः देवालयाः एतेषां काले एव निर्मिताः । यद्यपि सम्पूर्णभारतस्य एकमेवराज्यस्य परिकल्पना उत्तरभारते हर्षवर्धनस्य पराजयेन सह नष्टा अभवत् तथापि दक्षिणभारते पौनःपुन्येन पल्लविता भवति स्म ।


चोळसाम्राज्यम्


दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोळसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि भारते प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते श्रीलङ्कायाः शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् राजराजचोळः भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परिगण्यते ।


प्रतिहाराः, पालाः तथा राष्ट्रकूटाः


प्रतिहाराः ६ शतकतः ११ शतकपर्यन्तम् इदानीन्तनं राजस्थानम्, उत्तरभारतस्य प्रदेशान् च शिष्टवन्तः ।

पालानां साम्राज्यम् इदानीन्तनात् बिहारतः बङ्गालपर्यन्तं विस्तृतम् आसीत् । पालाः ८ शतकतः १२ शतकपर्यन्तं शासनम् अकुर्वन् ।

कार्णाटकस्य "मळखेड"प्रदेशे स्थिताः राष्ट्रकूटाः चालुक्यानाम् अनन्तरं प्रवर्धिताः । ८ शतकतः १० शतकपर्यन्तं दख्खनप्रदेशे शासनम् अकुर्वन् ।

एते त्रयः अपि राजवंशाः उत्तरभारते अधिपत्यार्थं परस्परं युद्धं कुर्वन्ति स्म । तस्मिन् एव काले दक्षिणे चोळसाम्राज्यं बलयुतम् आसीत् । कालान्तरे पालसाम्राज्यं सेनसाम्राज्यस्य भागः अभवत् । प्रतिहारसाम्राज्यं च रजपूतेषु विभक्तम् अभवत् ।



रजपूताः


रजपूताः ६ शतके राजस्थाने राज्यस्थापनम् अकुर्वन् । मेवारं (सिसोदिया), गुजरातं (सोलङ्की), मालवं (परमाराः), बुन्देलखण्डं (चाण्डेलाः), हरियाणं (तोमाराः) च योजयित्वा समग्रम् उत्तरभारतं रजपूतानाम् अधीने आसीत् । रजपूतानाम् अपेक्षया पूर्वम् उत्तरभारतं प्रतिहाराणां वशे आसीत् । रजपूतानां राज्यम् उत्तरभारते सीमासमीपे आसीत् इति कारणात् विदेशेभ्यः आक्रमणं कुर्वतां यवनानां सम्मुखीकरणम् अनिवार्यम् आसीत् । रजपूताः तत्र सफलाः अपि अभवन् । चौहाणवंशस्य रजपूतराजा पृथ्वीराजचौहाणः तेषु प्रसिद्धः राजा ।


होय्सलाः, काकतीयाः, दक्षिणकळचूर्याः, सेपुणराज्यानि च


१२ शतकस्य मध्यभागे कल्याणिचालुक्यानां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं हळेबीडस्य होय्सलेषु, वाहङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् अत्र । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-काकतीयराज्ययोः प्रदेशे विजयनगरसाम्राज्यम् आरब्धम् ।


शाहिराज्यम्


७ शतकस्य मध्यभागतः ११ शतकस्य आदिभागपर्यन्तं भारते शासनम् अकरोत् शाहिराज्यम् । एतत् राज्यम् इदानीन्तनस्य अफघानिस्तानस्य पूर्वभागे, पकिस्तानस्य उत्तरभागे, काश्मीरे च प्रसृतम् आसीत् । तेषां राज्यस्य कालः बौद्धतुर्कशाहि, हिन्दुशाहि इति द्विधा विभज्यते । एवं परिवर्तनं क्रि श ८७० अवधौ अभवत् । गान्धारस्य अथवा अफघानिस्तानस्य शासनं कृतवत्सु बौद्ध अथवा हिन्दुराजवंशेषु अयमेव अन्तिमः राजवंशः । तदनन्तरम् अयं प्रदेशः घज्नवि तथा अन्यानां सुल्तनानाम् अधीनः जातः ।


विजयनगरसाम्राज्यम्


(क्रि श १३३६ - १५६५)



विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्क इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पे"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेषियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नड-तेलुगु-संस्कृतसाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः अन्त्यम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः ।


इस्लां-सुल्तानाः


भारतस्य प्रतिवेशिदेशं पर्षियादेशं वशीकृतवन्तः अरब्-तुर्काः सम्पद्भरितं भारतम् अपि वशीकर्तुं योजनाम् अकुर्वन् । तदानीन्तनकाले वज्राणां खनिः केवलं भारते एव आसीत् । उत्तरभारतस्य राजानां विरोधे सति अपि भारते राज्यस्थापने यशस्विनः अभवन् तुर्काः । तुर्काणाम् आगमनात् पूर्वम् एव यवनवणिजः दक्षिणभारतस्य समुद्रतीरप्रदेशेषु तत्रापि केरले आसन् । एवं पश्चिमदिक्तः इस्लांसंस्कृतिः भारतं प्राविशत् ।


देहली-सुल्तानाः


१२-१३ शतकयोः अरब्बाः, तुर्काः, आफ्घन्नाः च भारतस्य कतिपयप्रदेशान् आक्रम्य देहल्यां सुल्तानराज्यस्य स्थापनम् अकुर्वन् । कालान्तरे गुलामसाम्राज्यम्, उत्तरभारतस्य बहून् प्रदेशान् वशीकृतवन्तः । अनन्तरं यद्यपि खिल्जिसाम्राज्येण मध्यभारतस्य आक्रमणं कृतं तथापि ते सम्पूर्णस्य उपखण्डस्य वशीकरणे असफलाः अभवन् ।


मोघलानां कालः


(क्रि श १५२६ - १७०७)


तैमूरवंशस्थः बाबरः खैबरखातम् अतिक्रम्य आगत्य १५२६तमे वर्षे मोघलसाम्राज्यस्य स्थापनं भारते अकरोत् । अग्रे २०० वर्षाणि यावत् भारते शासनम् अकरोत् एतत् साम्राज्यम् । अस्मिन् कालावधौ भारतस्य सामाजिकजीवने बहूनि परिवर्तनानि अभवन् । हिन्दुभूमेः शासनं कुर्वत्सु तेषु केचन धार्मिकसहिष्णुतां प्रादर्शयन्, केचन हिन्दुसंस्कृतेः प्रोत्साहम् अयच्छन्, अन्ये केचन हिन्दुदेवालयान् अनाशयन्, यवनेतरेभ्यः विशेषकरम् अपि स्वीकृतवन्तः । तावत्पर्यन्तं भारतं शिष्टवत्सु साम्राज्येषु मोघलसाम्राज्यम् एव अत्यन्तं धनिकम् आसीत् । मोघलसाम्राज्यस्य औन्नत्यकाले एतत्साम्राज्यं मौर्यसाम्राज्यस्य अपेक्षया अपि बृहत् आसीत् । १७०७ तमात् वर्षात् अधोगतिं प्राप्नुवत् एतत्साम्राज्यं प्रथमस्वातन्त्र्यसङ्ग्रामकाले (१८५७) सम्पूर्णतया अनश्यत् । तावता तत्र तत्र बहूनि लघु लघु राज्यानि अस्तित्वं प्राप्नुवन् ।
यद्यपि मोघलाः शासनार्थम् अमानुषप्रयत्नान् अकुर्वन् तथापि भारतीयसंस्कृतिम् अपि अङ्गीकृतवन्तः इति कारणात् यशस्विनः अभवन् । एतेषु अक्बरः प्रसिद्धः । मोघलजनाः स्थानीयान् राजपरिवारीयान् ऊढ्वा पुत्रान् अपि प्राप्नुवन् । तदन्तरं शासनरतः औरङ्गजेबः परमहिन्दुद्वेषी आसीत् । तस्मात् कारणात् बहुसंख्याकाणां हिन्दूनां वैरत्वम् अपि प्रप्नोत् ।


मोघलानाम् अनन्तरकालः


अस्मिन् काले मराठाराज्यस्य, अन्येषां प्रान्तीयराज्याणां च उदयः अभवत् । ऐरोप्याणाम् आगमनम् अपि अस्मिन् एव काले सञ्जातम् ।



मराठासाम्राज्यम्


(१६७४-१७६१)



कर्णाटकस्य बिजापुरस्य सुल्तानस्य राज्यस्य कञ्चित् भागम् आक्रम्य १६७४ तमे वर्षे मराठारज्यस्य आधिपत्यम् अस्थापयत् । दख्खनिप्रदेशम् अपि वशीकृत्य औरङ्गजेबेन सह युद्धम् अकरोत् शिवाजिः । १८ शतकाभ्यन्तरे एतत् साम्राज्यं पेश्वेजनानां शासनान्तर्गतम् आसीत् । १७६० तमे वर्षे भारतस्य बहवः प्रदेशाः अस्य साम्राज्यस्य अन्तर्गताः आसन् । तृतीये पाणिपत्-युद्धे (१७६१) अफघान-अहमद्-शा-अब्दालिः मराठाराजान् पराजितवान् । एतेषां मराठाराजानाम् अन्तिमः राजा द्वितीयः बाजीरायः तृतीये ब्रिटिश्-मराठायुद्धे पराजितः अभवत् ।


मैसूरु-संस्थानम्


ओडेयर्-वंशीयाः १४००तमे वर्षे मैसूरुसंस्थानस्य स्थापनम् अकुर्वन् । हैदरालेः तस्य पुत्रस्य टिप्पुसुल्तानस्य च काले ओडेयर्-शासनस्य भङ्गः जातः । अस्मिन् काले मैसूरुसंस्थानेन बहूनि युद्धानि सम्मुखीकरणीयानि अभवन् । तेषु बहूनि फ्रेञ्चजनानां साहाय्येन ब्रिटिशजनैः सह अभवन् । कदाचित् ब्रिटिश् तथा मराठासैन्येन सह अपि युद्धानि अभवन् । १७९९तमे वर्षे प्रवृत्ते चतुर्थे मैसूरुयुद्धे टिप्पुसुल्तानह् मरणं प्राप्नोत् । तदनन्तरम् ओडेयरवंशीयाः ब्रिटिशजनानाम् अधीनाः सन्तः किञ्चित् प्रमाणेन राज्याधिकारं पुनः प्राप्नुवन् । कालान्तरे मैसूरुसंस्थानं भाषाशः विभागावसरे कन्नडप्रादेशिकप्रदेशेषु लीनं भूत्वा मैसूरुराज्यस्य (इदानीन्तनकर्णाटकम्) भागः अभवत् ।


पञ्जाब्


सिख्-मतस्य दशभिः गुरुभिः संस्थापितम् एतत् राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् ।


दुरानीसाम्राज्यम्


१७४८ तमे वर्षे अफघानिस्तानस्य नायकः अह्मद् शा दुरानी अस्य साम्राज्यस्य स्थापनम् अकरोत् । तदवसरे सः हिन्दूनां विरुद्धं "जिहाद्"युद्धं घोषयित्वा सिन्धुनद्याः क्रमणम् अकरोत् । सः प्रथमं भारतस्य गुरिलाहोरस्य (इदानीन्तनपाकिस्तानस्य भागः) उपरि १७५० तमे वर्षे आक्रमणम् अकरोत् । अनन्तरं पञ्जाब्-प्रान्तं, काश्मीरं, देहलीं च वशीकृतवान् । भारततः तदा एव बहूनि अत्यमूल्यानि वस्तूनि स्वदेशम् अनयत् सः । तेषु "कोहिनूर् वज्रम्" अपि अन्तर्भूतम् ।


गूर्खाः


पूर्वं मौर्यसाम्राज्यस्य भागः यः आसीत् तं नेपालप्रदेशं १८ शतके गूर्खाः कट्मण्डुखातद्वारा प्रविष्टवन्तः । किञ्चित् कालं यावत् शासनं कृत्वा अन्ते ब्रिटिशानां काले तैः सह स्वराज्यम् अयोजयन् ।


विस्तरणयुगम्


अस्मिन् काले एष्या, आफ्रिका, दक्षिण-अमेरिका इव भारतम् अपि विस्तारिकाणां शक्तीनां लक्ष्यम् अभवत् । बहूनां विस्तारिकशक्तीनां शासनस्य अनन्तरम् अन्ते ब्रिटिश्-जनानां शासनम् आरब्धं भारते । अयं स्तरः आधुनिकयुगस्य कश्चन प्रमुखः स्तरः । अनन्तरं भारते स्वातन्त्र्यार्थम् आन्दोलनम् आरब्धम् । प्रथमस्वातन्त्र्यान्दोलनतः आरभ्य आरब्धम् आन्दोलनम् अग्रे महात्मा गान्धेः नायकत्वे प्राचलत् ।


कम्पनिशासनम्


१४६८तमे वर्षे वास्कोडगामः भारतं प्रति आगमनाय नूतनं जलमार्गम् अन्विष्टवान् । तदनन्तरम् ऐरोप्यदेशेभ्यः बहवः आगत्य भारते विस्तरणम् आरब्धवन्तः । पोर्चुगीसाः गोवायां, दमन्प्रदेशे, दियुप्रदेशे, मुम्बय्यां च विस्तरणम् आरब्धवन्तः । ब्रिटिशाः १६१९ तमे वर्षे दक्षिण-एष्यामध्ये प्रथमं विस्तरणम् आरब्धवन्तः वायुव्यनौकास्थाने सूरत्-नगरे । अनन्तरं ते मद्रास् मुम्बई, कल्कत्ता इत्यादिषु नगरेषु प्रन्तीयाणां राज्यानां साहाय्येन विस्तरणम् आरब्धवन्तः ।
१७ शतके दक्षिणभारते बहुत्र फ्रेञ्चजनानां विस्तरणानि आसन् । अनन्तरं ब्रिटिशैः सह निरन्तरं जातानां युद्धानां कारणतः बहूनि विस्तरणानि फ्रेञ्चजनानां हस्तच्युतानि अभवन् । किन्तु पाण्डिचेर्याः, चन्द्रनगरस्य च रक्षणे सफलाः अभवन् ।

डच्चाः भारते तावता प्रमाणेन विस्तरणानि न आरब्धवन्तः । तथापि तिरुवाङ्कूरु परितः प्रदेशान् शिष्टवन्तः । तेषां लक्ष्यं श्रीलङ्का इण्डोनेष्या च आस्ताम् ।


ब्रिटन्देशस्य आधीन्ये


१७५७ तमे वर्षे राबर्ट् क्लैवस्य नायकत्वे ब्रिटिश् ईस्ट् इण्डिया कम्पनी प्लासीयुद्धे बङ्गालस्य नवाबं सिराज् उद् दौलं पराजितवान् । ततः बङ्गालं वशीकृतवान् च । १८५० तमवर्षावसरे भारतस्य बहून् भागान् वश्यकरोत् ईस्ट् इण्डिया कम्पनी । १८५७ तमे वर्षे सैनिकानां नायकत्वे आरब्धस्य भारतस्य प्रथमस्य स्वातन्त्र्य-आन्दोलनस्य शमने सफलाः अभवन् । तदनन्तरं भारतस्य शासनं ब्रिटिश् - राजगृहस्य आधीन्यम् अभवत् । तदनन्तरं ते भारतस्य अवशिष्टान् भागान् अपि स्थानीयानां राजानां द्वारा नियन्त्रणे स्थापितवन्तः ।


स्वातन्त्रान्दोलनम्


१९ शतकस्य अन्तिमभागे भारते स्वराज्यकल्पना जागरिता अभवत् । १९२० तमवर्षानन्तरं महात्मा गान्धिः, सुभाषचन्द्रबोसः च राष्ट्रिय-काङ्ग्रेस-पक्षं ब्रिटिशविस्तरणस्य विरुद्धं जनान्दोलनत्वेन परिवर्तितवन्तौ । तस्य परिणामरूपेण १९४७तमे वर्षे भारतं स्वतन्त्रम् अभवत् । तदवसरे जात्यातीतस्य भारतस्य, इस्लामीयस्य पाकिस्तानस्य च उदयः अभवत् । तत्समये पञ्जाब्, बङ्गालं, देहली इत्यादिषु नगरेषु च सिख्-हिन्दु-मुस्लिम्-जनानां मध्ये सञ्जातस्य कोलाहलस्य कारणतः लक्षद्वयापेक्षया अधिकाः मरणं प्राप्नुवन् । एककोटितः अपि अधिकाः हिन्दवः यवनाः च स्वगृहं ग्रामं वा परित्यज्य अन्यदेशं प्रति गताः ।


भारतगणराज्यम्


स्वातन्त्र्यस्य प्राप्त्यनन्तरम् अपि भारतेन बहुवारं युद्धं करणीयम् अभवत् परितः विद्यमानैः देशैः सह । तादृशेषु युद्धेषु प्रमुखाणि ४ भारत-पाकिस्तानयुद्धानि, भारत-चीनायुद्धानि च । १९७४तमे वर्षे अणुसाधनं स्फोटयित्वा, १९९८तमे वर्षे सरणिपरीक्षाः च कृत्वा भारतम् अणुघोषितराष्ट्राणाम् आवल्याम् अन्तर्भूतम् । ब्रिटिशैः त्यक्त्वा गतात् समाजवादात् प्रेरितं भारतं मन्दगत्या प्रगतिदिशि गच्छति स्म । १९९० दशकानन्तरं भारतस्य आर्थिकप्रगतिः महाता प्रमाणेन अभवत् । इदानीं भारतं विश्वे एव महाशक्तिरूपेण प्रवर्धमानम् अस्ति । अर्थशास्त्रज्ञानाम् अनुसारं २०२०तमवर्षाभ्यन्तरे भारतं विश्वस्य तिसृषु महतीषु आर्थिकशक्तीषु एकं भविष्यति ।


वंशावली


  • प्राचीन-वंशावली

  • नन्दवंशः

  • मौर्यवंश:

  • शुङ्गवंशः


  • आन्‍ध्रवंश: अथवा शातवाहनाः

  • गुप्‍तवंश:

  • चोळवंश:

  • मुगलवंश:


सम्बद्धजना:


  • महापद्मनन्दः

  • बिन्दुसारः

  • चन्द्रगुप्तमौर्यः

  • अशोकः

  • चन्द्रगुप्त:-१

  • समुद्रगुप्तः

  • चन्द्रगुप्तविक्रमादित्य:

  • हर्ष:

  • राजेन्द्रचोळः

  • बाबर:

  • हुमांयू

  • अकबरः

  • जहाङ्गीरः

  • शाहजहानः

  • औरङ्गजेब:

  • छत्रपतिः शिवाजिः


१७०० तमे



१८०० तमे


  • राज्ञी लक्ष्मीबाई
  • बालगङ्गाधरतिलकः


१९०० तमे


  • मदनमोहनमालवीयः

  • रवीन्द्रनाथठाकुरः

  • महात्मा गान्धिः

  • वल्लभभाई पटेलः

  • जवाहरलाल नेहरुः











"https://sa.wikipedia.org/w/index.php?title=भारतस्य_इतिहासः&oldid=364506" इत्यस्माद् पुनः प्राप्तिः










सञ्चरणावलिः



























(window.RLQ=window.RLQ||[]).push(function()mw.config.set("wgPageParseReport":"limitreport":"cputime":"0.344","walltime":"0.400","ppvisitednodes":"value":812,"limit":1000000,"ppgeneratednodes":"value":0,"limit":1500000,"postexpandincludesize":"value":50686,"limit":2097152,"templateargumentsize":"value":123,"limit":2097152,"expansiondepth":"value":8,"limit":40,"expensivefunctioncount":"value":0,"limit":500,"unstrip-depth":"value":0,"limit":20,"unstrip-size":"value":0,"limit":5000000,"entityaccesscount":"value":0,"limit":400,"timingprofile":["100.00% 92.740 1 फलकम्:स्वातन्त्र्यसङ्ग्रामः","100.00% 92.740 1 -total"," 78.45% 72.759 1 फलकम्:Navbox"," 12.75% 11.824 4 फलकम्:Spaces"," 4.86% 4.506 84 फलकम्:·w"," 3.49% 3.240 7 फलकम्:Nowrap_begin"," 3.31% 3.067 1 फलकम्:Fontcolor"," 2.99% 2.770 7 फलकम्:Nowrap_end"],"scribunto":"limitreport-timeusage":"value":"0.019","limit":"10.000","limitreport-memusage":"value":952791,"limit":52428800,"cachereport":"origin":"mw1247","timestamp":"20190409075522","ttl":2592000,"transientcontent":false););"@context":"https://schema.org","@type":"Article","name":"u092du093eu0930u0924u0938u094du092f u0907u0924u093fu0939u093eu0938u0903","url":"https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%87%E0%A4%A4%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B8%E0%A4%83","sameAs":"http://www.wikidata.org/entity/Q133136","mainEntity":"http://www.wikidata.org/entity/Q133136","author":"@type":"Organization","name":"Contributors to Wikimedia projects","publisher":"@type":"Organization","name":"Wikimedia Foundation, Inc.","logo":"@type":"ImageObject","url":"https://www.wikimedia.org/static/images/wmf-hor-googpub.png","datePublished":"2004-10-05T02:50:19Z","dateModified":"2016-03-04T13:09:09Z"(window.RLQ=window.RLQ||[]).push(function()mw.config.set("wgBackendResponseTime":234,"wgHostname":"mw1322"););

Popular posts from this blog

Isurus Índice Especies | Notas | Véxase tamén | Menú de navegación"A compendium of fossil marine animal genera (Chondrichthyes entry)"o orixinal"A review of the Tertiary fossil Cetacea (Mammalia) localities in wales port taf Museum Victoria"o orixinalThe Vertebrate Fauna of the Selma Formation of Alabama. Part VII. Part VIII. The Mosasaurs The Fishes50419737IDsh85068767Isurus2548834613242066569678159923NHMSYS00210535017845105743

Wolfenstein 3D Contents Availability Essential improvements Game data Video settings Input settings Audio settings Network VR support Issues fixed Other information System requirements NotesReferences    3D Realms Wolfenstein 3D pageGOG.com Community DiscussionsGOG.com Support PageSteam Community DiscussionsWolfenstein WikiOfficial websiteAmazon.comBethesda.netGamersGateGOG.comGreen Man GamingHumble StoreSteamweb browser versionWolfenstein 3D: Super UpgradesherehereUltraWolfhereWolfMenuECWolf Wolf4SDL WolfGL WinWolf3d NewWolf BetterWolf Sprite Fix and Rotation Project    Wolfenstein 3D VRSplitWolfWolfenstein 3D VRWolfenstein 3D VRWolfenstein 3D VR4DOS command shellFreeDOS's MORE.COMMacBin themthis shim fileWine regeditRELEASE: QUAKE II + III, WOLFENSTEIN 3D, RETURN TO CASTLE WOLFENSTEIN - GOG.com NewsMac Family - Wolfenstein Wiki - WikiaNerdly Pleasures: How many FPS? - DOS Games and Framerates

Король Коль Исторические данные | Стихотворение | Примечания | Навигацияверсии1 правкаверсии1 правкаA New interpretation of the 'Artognou' stone, TintagelTintagel IslandАрхивировано